|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.294. अध्यायः 294
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरंप्रति सावित्र्युपाख्यानकथनारम्भः ॥ 1 ॥ अस्वपतिनाम्नो मद्रराजस्य स्वीयव्रतचर्यासंतुष्टसावित्रीदेवीप्रसादात्सावित्रीनामककन्याजननम् ॥ 2 ॥ यौवनस्ययातया पित्राज्ञया वृद्दामात्यैः सह राजर्षीणामाश्रमेषु स्वोधितवरान्वेषणम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
युधिष्ठिर उवाच। 3-294-0x(2729)(27240)
नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने।
हरणं चापि राज्यस् यथेमां द्रुपदात्मजाम् ॥ 3-294-1(27241)
द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम्।
जयद्रथेन चपुनर्वनाच्चापि हृता बलात् ॥ 3-294-2(27242)
अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाऽपिवा श्रुता।
पतिव्रता महाभागा यथेयं द्रुपदात्मजा ॥ 3-294-3(27243)
मार्कण्डेय उवाच। 3-294-4x(2730)
शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर।
सर्वमेतद्यथाप्राप्तं सावित्र्या राजकन्यया ॥ 3-294-4(27244)
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः।
ब्रह्मण्यश्चमहात्मा च सत्यसन्धो जितेन्द्रियः ॥ 3-294-5(27245)
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः।
पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः ॥ 3-294-6(27246)
क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः।
अतिक्रान्तेन वयसा संतापमुपजग्मिवान् ॥ 3-294-7(27247)
अपत्योत्पादनार्थं च तीव्रं नियममास्थितः।
काले परिमिताहारो ब्रहमचारी जितेन्द्रियः ॥ 3-294-8(27248)
हुत्वा शतसहस्रं स सावित्र्या राजसत्तम।
षष्ठेषष्ठे तदाकाले बभूव मितमोजनः ॥ 3-294-9(27249)
एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु।
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ॥ 3-294-10(27250)
रूपिणी तु तदा राजन्दर्शयामास तं नृपम्।
अग्निहोत्रात्समुत्थाय हर्षेण महताऽन्विता ॥ 3-294-11(27251)
उवाच चैनं वरदा वचनं पार्थिवं तदा।
सा तमश्वपतिं राजन्सावित्री नियमे स्थितम् ॥ 3-294-12(27252)
ब्रह्मचर्येण शुद्धेन दमेन नियमेन रच।
सर्वात्मना च भक्त्या च तुष्टाऽस्मि तव पार्थिवाः ॥ 3-294-13(27253)
वरं वृणीष्वाश्वपते मद्रराज यदीप्सितम्।
न प्रामादश्च धर्मेषु कर्तव्यस्ते कथंचन ॥ 3-294-14(27254)
अश्वपतिरुवाच। 3-294-15x(2731)
अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया।
पुत्रा मे बहवो देवि भवेयुः कुलभावनाः ॥ 3-294-15(27255)
तुष्टाऽसि यदि मे देवि वरमेतं वृणोम्यहम्।
संतां परमो धर्म इत्याहुर्मां द्विजातयः ॥ 3-294-16(27256)
सावित्र्युवाच। 3-294-17x(2732)
पूर्वमेव मया राजन्नभिप्रायमिमं तव।
ज्ञात्वा पुत्रार्थमुक्तो वै भगवांस्ते पितामहः ॥ 3-294-17(27257)
प्रसादाच्चैव तस्मात्ते स्वयं विहितवत्यहम्।
कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति ॥ 3-294-18(27258)
उत्तरं च न ते किंचिद्व्याहर्तव्यं कथंचन।
पितामहनियोगेन तुष्टा ह्येतद्ब्रवीमि ते ॥ 3-294-19(27259)
स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः।
प्रसादयामास पुनः क्षिप्रमेतद्भविष्यति ॥ 3-294-20(27260)
अन्तर्हितायां सावित्र्यां जगाम स्वपुरं नृपः।
स्वराज्ये चावसद्बीरः प्रजा धर्मेण पालयन् ॥ 3-294-21(27261)
कस्मिंश्चित्तु गते काले स राजा नियतब्रतः।
ज्येष्ठायां धर्मचारिण्यां महिष्यां कगर्भमादधे ॥ 3-294-22(27262)
राजपुत्र्यास्तु गर्भः स मानव्या भरतर्षभ।
व्यर्धतं तदा शुक्ले तारापतिरिवाम्बरे ॥ 3-294-23(27263)
प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम्।
क्रियाश्च तस्या मुदितश्चक्रे च नृपसत्तमः ॥ 3-294-25aसावित्र्या प्रीतया दत्ता साव्त्र्या द्दुतया ह्यपि।
सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ॥ 3-294-24(27264)
सा विग्रहवतीव श्रीव्यवर्धत नृपात्मजा।
कालेन चापि सा कन्या यौवनस्ता बभूव ह ॥ 3-294-26(27265)
तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव।
प्राप्तेयं रदेवकन्येति दृष्ट्वा संमेनिरे जनाः ॥ 3-294-27(27266)
तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा।
न कश्चिद्वरयामास तेजसा प्रतिवारितः ॥ 3-294-28(27267)
अथोपोष्य शिरःस्नाता देवतामभिगम्य सा।
हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि ॥ 3-294-29(27268)
ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः।
पितुः समीपमगमद्देवी श्रीरिव रूपिणी ॥ 3-294-20(27269)
साऽभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च।
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वमास्थिता ॥ 3-294-31(27270)
यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम्।
अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् ॥ 3-294-32(27271)
राजोवाच। 3-294-33x(2733)
पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम्।
स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः ॥ 3-294-33(27272)
प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम।
विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् ॥ 3-294-34(27273)
श्रुतं हि धर्मशास्त्रेषु पठ्यमानं द्विजातिभिः।
तथा त्वमपिकल्याणि गदतो मे वचः शृणु ॥ 3-294-35(27274)
अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः।
मृते पितरि पुत्रश्च वाच्यो मातुररक्षिता ॥ 3-294-36(27275)
इदं मे वचनं क्षुत्वा भर्तुरन्वेषणे न्वर।
देवतानां यथा याच्यो न भवेयं तथा कुरु ॥ 3-294-37(27276)
एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः।
व्यादिदेशानुयात्रं च गम्यतां चेत्यचोदयत् ॥ 3-294-38(27277)
साऽभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी।
पितुर्वचनमाज्ञाय निर्जगामाविचारितम् ॥ 3-294-39(27278)
सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता।
तपोवनानिरम्याणि राजर्षीणां जगाम ह ॥ 3-294-40(27279)
मान्यानां तत्र वृद्धानां कृत्वा पादाभिवादनम्।
वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत ॥ 3-294-41(27280)
एवं तीर्थेषु सर्वेषु धनोत्सर्गं नृपात्मजा।
कुर्वी द्विजमुख्यानां तंतं देशं जगाम ह ॥ 3-294-42(27281)
इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि चतुर्नवत्यधिकद्विशततमोऽध्यायः ॥ 294 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-294-9 सावित्र्या सावित्री सवितृकन्या तद्दैवत्यवा ऋचा रसा च। सोर्मा वधूयुरभवदित्यादिः। षष्ठेकाले अष्टधाविभक्तस्याह्नः षष्ठेशे ॥ 3-294-19 उत्तरं पुत्रार्थं प्रार्थनावचनम् ॥ 3-294-20 प्रतिज्ञायाज्ञोकृत्य ॥ 3-294-23 मानव्या मनुपुत्र्याः ॥ 3-294-28 प्रतिवारितोऽभिभूतः ॥ 3-294-30 सुमनस इष्टदेवतायाः। शोषाः प्रसादपूर्वकं दत्तानि माल्यानि ॥ 3-294-32 अयाच्यमानां तु नरैरिति ध. पाठः ॥ 3-294-34 प्रार्थित इच्छितः ॥ 3-294-36 वाच्यो निन्द्यः। अनुपयन् ऋतावगच्छन ॥ 3-294-38 अनुयात्रां यात्रोपकरणं वाहनादि ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|